top of page

हेरम्बोपस्थानम्

Hindi/Devanagari

Hindi/Devanagari

Lord Ganapati - The Vedic Brahmanaspati

हेरम्बोपस्थानम् — परिचय

हेरम्ब गणपति को समर्पित हेरम्बोपस्थानम्, काव्यकण्ठ वासिष्ठ श्री गणपति मुनि की अत्यंत गम्भीर भक्तिमय और रहस्यात्मक रचनाओं में से एक है। भक्तों के रक्षक, मन्त्राधिपति और अन्तर्ज्ञान प्रदान करने वाले दिव्यस्वरूप हेरम्ब गणपति को समर्पित यह कृति केवल चालीस श्लोकों की है, फिर भी इसमें वेदतत्त्व, योगरहस्य, मन्त्रशास्त्र और प्रत्यक्ष आध्यात्मिक अनुभूति जैसे अनेक गहन विषयों का निरूपण किया गया है।


यह स्तोत्र चार खण्डों में विस्तृत होकर एक सम्पूर्ण आध्यात्मिक यात्रा का उद्घाटन करता है। प्रथम खण्ड हेरम्ब की कृपा, अनुग्रह और रक्षा की मंगलप्रार्थनाओं से परिपूर्ण है। द्वितीय खण्ड मूलाधार चक्र, शक्ति, गुरु-तत्त्व और उच्छिष्ट गणपति के रहस्यमय तत्त्वों का आन्तरिक अर्थ प्रकट करता है। तृतीय खण्ड गणपति को मन्त्राधिपति, पवित्र वाक् के प्रभु, अन्तर्यज्ञस्वरूप और वेदों द्वारा स्तुत दिव्य ज्योतिर्मय चैतन्य के रूप में प्रस्तुत करता है। चतुर्थ खण्ड अत्यंत व्यक्तिगत आध्यात्मिक संवाद का रूप लेता है; इसमें मुनि का पूर्ण समर्पण, उनका दिव्यस्वरूप से सम्बन्ध और पृथ्वी पर उनके आविर्भाव का उद्देश्य व्यक्त होता है।


हेरम्बोपस्थानम् केवल बाह्य आराधना का स्तोत्र नहीं है; यह अन्तराराधना और आत्मजागरण का मार्गदर्शक साधनग्रन्थ है। यह साधक को बाह्य भक्ति से आन्तरिक दिव्यानुभव की ओर ले जाने वाला अद्भुत उपाय है। श्री गणपति मुनि ने स्वयं घोषित किया है कि हेरम्बोपस्थानम् का नित्य पारायण करने से शारीरिक, मानसिक, आध्यात्मिक और दैविक स्तरों पर असाधारण प्रगति और शुभविकास प्राप्त होता है।


इस महान कृति का सम्पूर्ण अनुवाद, व्याख्या और तात्त्विक विश्लेषण सहित ग्रन्थ शीघ्र ही तेलुगु, अंग्रेज़ी तथा अन्य भारतीय क्षेत्रीय भाषाओं में प्रकाशित किया जाएगा। श्री गणपति मुनि की आध्यात्मिक धरोहर को सुरक्षित रखने, प्रकाशित करने और भावी पीढ़ियों तक पहुँचाने के इस पवित्र कार्य में आपके सहयोग का हम हृदयपूर्वक स्वागत करते हैं।

॥ काव्यकण्ठ वासिष्ठ श्रीगणपतिमुनि विरचितम् हेरम्बोपस्थानम् ॥


प्रथमः खण्डः - शशिवदनावृत्तम्


श्रियमसमानां मम शुभनामा ।

दिशतु गणानां पतिरतिधामा ॥ १॥


विजितजराधिं विनिहतरोगम् ।

द्विरदमुखो मे वितरतु योगम् ॥ २॥


वितरतु मह्यं निजपदभक्त्तिम् ।

गणपतिरग्र्यामपि भुजशक्त्तिम् ॥ ३॥


हरतनयो मे विभुरतिहृद्याम् ।

वितरतु भूतप्रविमलविद्याम् ॥॥ ४॥


मम करिवक्त्रः प्रभुरनवद्याम् ।

दिशतु भविष्यद्विरुमुडुविद्याम् ॥ ५॥


निजविषयाजिष्वघहिमभानो ।

इममविजेयं कुरु हरसूनो ॥ ६॥


सुमधुरमाध्वीधरपदजातम् ।

करिमुख दासं कुरु कविमेतम् ॥ ७॥


गणपतिरूपं मनसि करोमि ।

गणपतिकीर्तिम् वचसि तनोमि ॥ ८॥


मम गणनाथः शमयतु पापम् ।

सपदि विमुष्णात्वपि परशापम् ॥ ९॥


शशिवदनानां नवकृतिरेषा ।

भजतु गणेशं पतिमिव योषा ॥ १०॥


इति प्रथमः खण्डः

इन्द्रो विश्वस्य राजति


द्वितीयः खण्डः - मदलेखावृत्तम्


आह प्राज्ञजनस्त्वां मूलाधारनिशान्तम् ।

मन्दे सुप्तमिभास्य ज्ञे युक्त्ते विलसन्तम् ॥ ११॥


अस्ति व्योम्नि गुरुर्यस्तस्यैव त्वमिहासि ।

विघ्नेशानविवर्तः सद्भक्तेषु विभासि ॥ १२॥


कोऽपि प्राभवशाली मूलाधारविहारी ।

प्रज्ञासिद्धिवधूभ्याम् श्लिष्टो भात्यघहारी ॥ १३॥


आशा मे तव शक्त्तिं देहे द्रष्टुमपाराम् ।

पातुं चेश्वरसूनो मूर्धन्यामृतधाराम् ॥ १४॥


या चित् सा तव माता यः श्रेष्ठः स पिता ते ।

सिद्धिर्बाह्यमतिर्ये ते नाथ प्रमदे ते ॥ १५॥


या लिप्सा हृदये मे तां पूर्णां कुरु मा वा ।

एषाङ्गीक्रियतां मे मत्तेभानन सेवा ॥ १६॥


ना खे याति सुरो वा त्वं चेत् किञ्चिदुदास्यम् ।

आधारे विदधासि स्कन्दस्याग्रज लास्यम् ॥ १७॥


न स्वार्थे मम यत्नो निःस्वार्थे मम सोऽयम् ।

उद्योगः शिवसूनो सद्यो देहि सहायम् ॥ १८॥


माहात्म्यं ननु वक्त्तुं कः शक्त्तः पुरुषस्ते ।

हस्तीन्द्रानन भाग्यं सर्वेषां तव हस्ते ॥ १९॥


एताः सम्मदकत्रीर्हैरम्बीर्मदलेखाः ।

सेवन्तां कविभृङ्गाश्चान्द्रीर्भा इव लेखाः ॥ २०॥


इति द्वितीयः खण्डः

इन्द्रो विश्वस्य राजति


तृतीयः खण्डः - इन्द्रवज्रावृत्तम्


एकादशानां प्रवरं सुतानां रुद्रस्य मन्त्राधिपतिम् नमामि ।

शास्त्राणि सर्वाण्यपि यस्य कीलाः सूर्यानपोह्यं तिमिरं हरन्ति ॥ २१॥


प्राज्ञेन बुद्ध्या यदकारि पद्यं साधारणस्तत्र तवोपकारः ।

हेरम्ब यन्मन्त्रमृषिश्चकार व्यक्तोविशिष्टस्तव तत्र यत्नः ॥ २२॥


जिह्वास्थलं नाथ विगाहमानं त्वामाहुरुच्छिष्टमयि छलोक्त्या ।

उच्छिष्टता चेत्तव रुद्रसूनो स्वाध्यायनिष्ठीवनयोर्भिदा का ॥ २३॥


सर्वाणि धान्यानि च भक्षयन्तं दन्तैः शितैर्देव सहायवन्तम् ।

एतं बिलस्थं रसनाह्वयं ते वाहं विदो मूषिकमामनन्ति ॥ २४॥


आधारचक्रे वसतो गणेश ज्योतिर्मयाणोर्ज्वलतः सदा ते ।

एकः पचत्यन्नमशेषमूष्मा सम्प्रेरयत्यन्य इमास्तु वाचः ॥ २५॥


वैश्वानरोऽग्निः सकलस्य जीवो वागिन्द्रियाग्निः शिवनन्दन त्वम् ।

यो वेद नैव युवयोर्विभेदं पिण्डेषु ना मुह्यति स प्रसङ्गे ॥ २६॥


त्वां ब्रह्मणस्पत्यभिधानमाहुः केचिद्विभोरीशपदस्य पुत्रम् ।

अन्यैर्बृहस्पत्यभिधान उक्तो धीरैर्विभोरिन्द्रपदस्य मन्त्री ॥ २७॥


जिह्वैव वेदिस्तव तोयपूता लोकप्रसङ्गस्तव तत्र धूमः ।

ज्वाला जगन्नाथकथा पवित्रा चेतो घृतं जुह्वति यत्र सन्तः ॥ २८॥


विद्युन्मयीमूर्तिरगादि जिष्णोर्या मौनिभिः सैव तव स्वरूपम् ।

इन्द्रस्य भेदस्तव चोदितो यः स प्राणविद्युत्तनुभेदमूलः ॥ २९॥


दिव्याग्निगात्रं धिषणा कलत्रं भर्गस्य पुत्रं प्रणतस्य मित्रम् ।

वासिष्ठ वागग्निऋचो भजन्तामेताः करीन्द्राननमिन्द्रवज्राः ॥ ३०॥


इति तृतीयः खण्डः

इन्द्रो विश्वस्य राजति


चतुर्थः खण्डः - वसन्ततिलकावृत्तम्


किं बृंहितानि कुरुषे कलुषेण भग्ने मग्ने महाविपदि देव निजे विवर्ते ।

निद्रामि चेद्वरद बोधय हस्तघाताद्गच्छामि चेदपथमाशु निवर्तयस्व ॥ ३१॥


वेषस्तवायमपरो यदि देव नाट्यमारभ्यतां तदुचितम् किमुपैषि मौनम् ।

एतां प्रभो यवनिकामपसारयन्तु साक्षाद्गणास्तव कुतः क्रियते विलम्बः ॥ ३२॥


एतत्तमो नयनशक्त्तिहरं गुहायाम् मार्गं रुणद्धि न विलोकितुमस्मि शक्त्तः ।

स्नेहोऽस्ति काचन दशास्ति विभो कटाक्षज्योतिर्लवम् सदय देहि पुरो व्रजेयम् ॥ ३३॥


घोरं करोमि न तपो यदि तेऽपराधः किं प्रेरणं न कृतवानसि रुद्रसूनो ।

सम्प्रेरितश्च भवता यदि नाचरेयं सम्प्रेरणस्य तव का गजवक्त्र शक्त्तिः ॥ ३४॥


कार्यं न मे किमपि तत् खलु निर्जराणां रूपं न मे किमपि तत्तव कोऽपि वेषः ।

इष्टं नु कष्टमथ कस्य करीन्द्रवक्त्र शिष्टं तु मे किमपि नाम नराङ्गसङ्गि ॥ ३५॥


नामापि तत्तव भवत्यथवा गजास्य चर्चा विनश्वरतमे तनुकञ्चुके का ।

विष्णोरिवेन्दुधवलं भविता यशश्चेत् तद्दन्तकान्तिषु तवैव लयं प्रयातु ॥ ३६॥


स्थूलां तनूमसुमशेषमनोरथानां स्थानं मनश्च धिषणां प्रमदं च मूलम् ।

आक्रम्य कोशमखिलं च विभो खलारे विघ्नाधिराज मयि दर्शय ते विभूतिम् ॥ ३७॥


देवी मतिर्जलजपत्रविशालनेत्रा देवी च सिद्धिरकलङ्कसुधाकरास्या ।

छायोष्णता च दिननाथमिव ज्वलन्तं नित्यं भवन्तमिभवक्त्र विभो भजे ते ॥ ३८॥


सिद्धेन्द्रवेषभृति भूमिहिताय रुद्रे कैलासशैलमधितिष्ठति वज्रपाणिः ।

धृत्वा गजेन्द्रमुखवेषममुष्य पुत्रो भूत्वा विभुर्नयति पारिषदानशेषान् ॥ ३९॥


सम्मोदयन्तु हृदयं द्विरदाननस्य देवस्य सिद्धिधिषणा हृदयेश्वरस्य ।

एता वसन्ततिलकाः कविकुञ्जरेण गीताः कयाऽप्यमलभावनया युतेन ॥ ४०॥


॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः

गणपतेः कृतिर्हेरम्बोपस्थानं समाप्तम् ॥

bottom of page